This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Wednesday, June 5, 2019

Narendra Modi khalu Rashtravadi Sanskrit poem by PROF. C. UPENDER RAO, J N U

 

 

नरेन्द्र मोदी खलु राष्ट्रवादी

 

 

समस्तानां नृणां समुचितविकासेन सततं

नवाभिर्नानाभिर्जनगणमताभिर्विजयते।

नरेन्द्रस्सर्वैरप्यनवरतसंस्तुत्यचरितो

सदा  सत्कार्याणां ततिभिरनवद्योऽयमधुना।।

 

नरेन्द्रोऽखिलेस्मिन्जगत्युज्ज्वलोऽभू

त्प्रशस्तस्य राष्ट्रस्य  सूनुः प्रकृष्टः।

दुरुद्देश्यपूर्णं दलं कान्ग्रेसाख्यं

पराभूतमेतेन नेत्रा स्वशक्त्या।।

                                                     

मोदी भारतनायकस्सुचरितामग्रेसरः केसरी

धीशालिर्महनीयमूर्तिरचलोध्दण्डप्रचण्डद्युतिः

विस्तीर्णेऽखिलराजनीतिजलधौ चन्द्रायतेऽयं जनो

नानायुक्तिसमन्वितः स्थिरमतिर्दामोदरस्सौख्यदः।।

 

 विहाय भ्रातरं भार्यां गेहं ग्रामं स्वमातरं।

समर्पितमनेनात्र जीवनं भारताय वै ।।

 

नेत्रानेन समारब्धाः जनसौख्यप्रदायिकाः।

योजनास्तासु सर्वासु योजनैका सुविशृता ।।

 

दारिद्र्योन्मूलनार्थं हि कृतैषा धनयोजना।

जनानां धनवृध्यर्थमेषा सुविदिताऽभवत्।।

 

योगस्यातिविशिष्टतत्ववलितस्यापि प्रभूतं यश

स्सर्वत्रैव यदि प्रचारसरणिं प्राप्तं जगत्यां भृशं

तन्नेत्रा खलु मोदिना प्रतनुतं योगस्य तेजः पुनः

मन्येऽसावखिलप्रजाप्रतिनिधिष्वग्रेसरस्सक्षमः।।

 

योगो नाम जनस्य रूपमधिकं योगो हि गुप्तं धनं

योगो बन्धुरसौ विदेशगमने योगो गुरूणां गुरुः ।

योगादेव विनिर्जिताः खलु नृणां चित्तस्य दोषास्ततो

योगात्सौख्यमनन्तमद्भुतमिति प्रोक्तं सदा मोदिना ॥

 

नरेन्द्रमोदी खलु  स्वच्छवादी

जनाभिमानेन समृद्धशक्तिः ।

प्रमत्तवादभ्रमछद्मवेधी

सदा जयत्युज्वलराष्ट्रवादी ॥

 

यथा प्रचण्डवेगेन वायुना ग्रासराशयः।

दिक्षु सम्पातिता भूत्वा क्रमेणादृश्यतां गताः ॥

 तथैव मोदिना नेत्रा प्रभंजनसमेन सः ।

न्हय्याख्यः पराभूतः खलु तेजस्विना भृशम्

 

अन्येऽपि बहवस्तत्र मोदिना हि तृणीकृताः।

क्षिप्तास्ते भारते वर्षे  मिथ्यायूथान्विताः खलु

 

पुनः प्रधानमन्त्रित्वं प्राप्योद्घोषितमेव यत् ।

विकासेन सहैवाद्य विश्वासोऽपीति मोदिना ॥

 

नरेन्द्रमोदी सततोज्वलस्स

न्नयेन प्राप्नोतु पदं प्रधानं ।

विनम्रभावेन मया कृतैषा

सुपद्यमाला सुरवाग्विचित्रा ॥

 

नानागुणैर्मणिमयैरिह मण्डितेऽस्मि

न्नारोग्य-धैर्य-विभवादि सुखप्रकर्षः ।

सत्कीर्तिरस्तु विपुला ह्यमला च शक्तिः

सौभाग्यमस्तु धनमस्तु सदैव दिव्यम् ॥

 



 प्रो. चौडूरि उपेन्द्ररावः,

संस्कृत-प्राच्यविद्याध्ययनसंस्थानम्

जवाहरलाल नेहरू विश्वविद्यालयः, नवदेहली, भारतम्, 9818969756

skt.scholar@gmail.com

 

No comments:

Post a Comment

నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...