This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Thursday, February 13, 2020

संस्कृतभारती कार्यक्रमः दिल्ल्याम्


संस्कृतभारत्या दिल्यां समायोजितायां शिक्षकप्रशिक्षणकार्यशालायां
प्रो. राव महोदयस्य उद्बोधनम्

        संस्कृतभारतीदेहलीद्वारा फरवरीमासस्य नवमे दिने शिक्षकप्रशिक्षणकार्यशाला आयोजिता । देहलीस्थसंकल्पभवने आयोजितायाम् अस्यां कार्यशालायां पंचविंशतिप्रतिभागिनः भागं गृहीतवन्तः। सर्वेsपि प्रतिभागिनः संवादशालायां प्रशिक्षिताः आसन्।

        कार्यशालायाः उद्घाटनं जवाहरलालनेहरूविश्वविद्यालयस्य आचार्येण प्रो. उपेन्द्रराववर्येण कृतम् । स्वीये भाषणे   प्रो. उपेन्द्रराववर्येण उक्तं यत्- संस्कृतभाषायाः प्रतिदिनाभ्यासेन संस्कृते सर्वे जनाः वक्तुं शक्वुवन्ति इति। तदर्थं भाषण, लेखन, कथन, पठन अभ्यासाः करणीयाः इत्यपि तैः प्रत्यपादि। तत्रोपस्थितानां प्रेरणार्थं तैः स्वरचिता संस्कृतकविता श्राविता।

संस्कृतभाषा सर्वपूजिता
श्रेष्टाऽभीष्टा ह्यनवद्या ।
लोकस्याखिल भाषाणामिय
माधारा खलु सम्पूज्या ॥
                    वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
हिन्दी-तेलुगु-तमिल-मराठी
गुजराती, राजस्थानी ।
मलयालं कन्नड-पंजाबी
भाषाणामम्बा हि मता ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
उत्तर-दक्षिण-पूर्व-पश्चिमे
ष्वेषा भाषा खलु पूज्या ।
भारतभाषाष्वेषा श्रेष्ठा 
सर्वसन्नुता सुरभाषा ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
भगवद्गीता विश्ववन्दिता
चत्वारो वेदाः हि सदा ।
रामायणमत्यन्तविश्रुतं
महाभारतं महोज्ज्वलम् ॥
              वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
संगच्छध्वं संवदध्वमिति
वेदमन्त्र उद्घोष्यतां ।
सा विद्या या विमुक्तये इति
ध्येयवाक्यमनुपाल्यताम् ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
सर्वे वेदाः सर्वे ग्रन्थाः
यस्यां भाषायां भान्ति, ।
सा भाषा सर्वाङ्ग-सुन्दरा
संस्कृतभाषा सदा नुता ॥
          वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
शास्त्रज्ञानं काव्यविलासः
भाषापाकश्श्रुतमधुरो ।
ज्ञानं विज्ञानेन संयुतं
संस्कृतभषाविनिर्मितम् ॥
              वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
कथं विस्मृता दिव्या भाषा
भव्या भारतजननीयम् ? 
निधिं स्वकीयां विस्मृत्यैषः
दिशि दिशि पश्यत्यज्ञजनो ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
प्राप्य जीविकां विस्मरन्त्यहो
केचिज्जड पुरुषा बत तां ।
संस्कृतभाषामन्नदायिनीं
सकलैश्वर्य-प्रदां विमलाम् ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम्।
भोः पुरुषाः, भोः महिलास्सर्वाः
संस्कृतस्य जयघोषमिमं ।
वदत वदत संयुज्य साम्प्रतं
जयतु संस्कृतं जयत्विति ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम् ॥

        कार्यशालायाः संचालनं श्रीधनञ्जयवर्येण कृतम्। कार्यशालायां संस्कृतभारत्याः देहलीप्रान्तमन्त्रिण: श्रीदेवकीनन्दनमहाभागाः, संस्कृतभारत्याः पूर्णकालिककार्यकर्तार: श्रीपुष्पेन्द्रमहाभागा:, संस्कृतभारत्या: कार्यकर्तार: विश्वविद्यालयप्रमुखाश्च  श्रीसुशीलकुमारमहाभागाः, संस्कृतभारत्याः कार्यकर्तारौ डॉ आशीषकुमार: डॉ प्रीति: च इमे सर्वे उपास्थिताः आसन्। कार्यशालायाः उद्देश्यं प्रतिभागिनां शिक्षकप्रशिक्षणमासीत्। अग्रिममासस्य प्रथमरविवासरे (01/03/2020) पुनः अस्याः कार्यशालायाः आयोजनं भविष्यति। प्रशिक्षितशिक्षकाः सेवाभारत्याः अशीति: केन्द्राणि गत्वा बालकान् पाठयिष्यन्ति।
                                                                               




నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...