संस्कृतभारत्या
दिल्यां समायोजितायां शिक्षकप्रशिक्षणकार्यशालायां
प्रो. राव महोदयस्य
उद्बोधनम्
संस्कृतभारतीदेहलीद्वारा
फरवरीमासस्य नवमे दिने शिक्षकप्रशिक्षणकार्यशाला आयोजिता । देहलीस्थसंकल्पभवने
आयोजितायाम् अस्यां कार्यशालायां पंचविंशतिप्रतिभागिनः भागं गृहीतवन्तः। सर्वेsपि
प्रतिभागिनः संवादशालायां प्रशिक्षिताः आसन्।
कार्यशालायाः
उद्घाटनं जवाहरलालनेहरूविश्वविद्यालयस्य आचार्येण प्रो. उपेन्द्रराववर्येण कृतम् ।
स्वीये भाषणे प्रो.
उपेन्द्रराववर्येण उक्तं यत्- संस्कृतभाषायाः प्रतिदिनाभ्यासेन संस्कृते सर्वे जनाः वक्तुं शक्वुवन्ति
इति। तदर्थं भाषण, लेखन, कथन, पठन अभ्यासाः करणीयाः इत्यपि तैः
प्रत्यपादि। तत्रोपस्थितानां प्रेरणार्थं तैः स्वरचिता संस्कृतकविता श्राविता।
संस्कृतभाषा
सर्वपूजिता
श्रेष्टाऽभीष्टा
ह्यनवद्या ।
लोकस्याखिल
भाषाणामिय
माधारा
खलु सम्पूज्या ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
हिन्दी-तेलुगु-तमिल-मराठी
गुजराती,
राजस्थानी ।
मलयालं
कन्नड-पंजाबी
भाषाणामम्बा
हि मता ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
उत्तर-दक्षिण-पूर्व-पश्चिमे
ष्वेषा
भाषा खलु पूज्या ।
भारतभाषाष्वेषा
श्रेष्ठा
सर्वसन्नुता
सुरभाषा ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
भगवद्गीता
विश्ववन्दिता
चत्वारो
वेदाः हि सदा ।
रामायणमत्यन्तविश्रुतं
महाभारतं
महोज्ज्वलम् ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
संगच्छध्वं
संवदध्वमिति
वेदमन्त्र
उद्घोष्यतां ।
सा
विद्या या विमुक्तये इति
ध्येयवाक्यमनुपाल्यताम्
॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
सर्वे
वेदाः सर्वे ग्रन्थाः
यस्यां
भाषायां भान्ति, ।
सा
भाषा सर्वाङ्ग-सुन्दरा
संस्कृतभाषा
सदा नुता ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
शास्त्रज्ञानं
काव्यविलासः
भाषापाकश्श्रुतमधुरो
।
ज्ञानं
विज्ञानेन संयुतं
संस्कृतभषाविनिर्मितम्
॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
कथं
विस्मृता दिव्या भाषा
भव्या
भारतजननीयम् ?
निधिं
स्वकीयां विस्मृत्यैषः
दिशि
दिशि पश्यत्यज्ञजनो ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
प्राप्य
जीविकां विस्मरन्त्यहो
केचिज्जड
पुरुषा बत तां ।
संस्कृतभाषामन्नदायिनीं
सकलैश्वर्य-प्रदां
विमलाम् ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम्।
भोः
पुरुषाः, भोः महिलास्सर्वाः
संस्कृतस्य
जयघोषमिमं ।
वदत
वदत संयुज्य साम्प्रतं
जयतु
संस्कृतं जयत्विति ॥
॥ वन्दे
संस्कृतं , वन्दे संस्कृतम् ॥
कार्यशालायाः
संचालनं श्रीधनञ्जयवर्येण कृतम्। कार्यशालायां संस्कृतभारत्याः
देहलीप्रान्तमन्त्रिण: श्रीदेवकीनन्दनमहाभागाः, संस्कृतभारत्याः
पूर्णकालिककार्यकर्तार: श्रीपुष्पेन्द्रमहाभागा:, संस्कृतभारत्या: कार्यकर्तार:
विश्वविद्यालयप्रमुखाश्च
श्रीसुशीलकुमारमहाभागाः, संस्कृतभारत्याः कार्यकर्तारौ डॉ आशीषकुमार: डॉ
प्रीति: च इमे सर्वे उपास्थिताः आसन्। कार्यशालायाः उद्देश्यं प्रतिभागिनां
शिक्षकप्रशिक्षणमासीत्। अग्रिममासस्य प्रथमरविवासरे (01/03/2020) पुनः अस्याः
कार्यशालायाः आयोजनं भविष्यति। प्रशिक्षितशिक्षकाः सेवाभारत्याः अशीति: केन्द्राणि
गत्वा बालकान् पाठयिष्यन्ति।
No comments:
Post a Comment