करोना-कोविदः
(आशुकृता
कविता- प्रो. चौडूरि उपेन्द्र रावेन)
करोनायाः
प्रभावेन संसारः क्लममेत्यहो।
एकोनविंशतितमः
चीनकोविदयं खलु॥
हस्तचालनसंक्रान्तदुष्टोऽयं
कुत्सिताशयः
भारतीयनमस्कारजितोऽभूच्चीनकोविदः।
अप्राप्य
भारते स्थानं राष्ट्रान्तरपलायितः।
इटलीरानराष्ट्रेषु
जनान्हन्ति पुनःपुनः॥
कोरियाकरोनयोर्मध्ये
सम्बन्धः दृढतां गतः।
चीनदेशस्य
दुर्बुध्या लोकोऽयं व्यथतेऽधुना॥
तथागतस्य
विस्मृत्य मार्गं कुत्सितबुध्दिना।
स्वयं
विनिर्मिते जाले स्वयमेव पपात सः (चीनः)
जनास्तु
कोविदाद्भीताः यात्रास्तत्यजुरात्मनां।
गृहादपि
बहिर्नैव गच्छन्ति परया भिया॥
केचित्स्वपन्ति
गेहेषु क्रीडन्त्यन्ये गृहांगणे।
सर्वकारेण
साक्षात्तु विरामाः खलु घोषिताः॥
विश्वविद्यालयास्सर्वे
कार्याकार्यविमोहिताः।
त्यक्त्वैवाध्यापनं
कार्यं कोविद्भयप्रपीडिताः॥
विमानसंस्थाः
काश्चित्तु निश्शुल्कपरिवर्तनं।
भविष्यतीति
नियमैरुक्त्वा नैवाचरन्खलु॥
सतां
हि भारतीयानां स्वस्थजीवनयापिनां
कथं
चिन्ता ! कुतो भ्रान्तिः ? कोविदेन दुरात्मना ॥
जैवायुधानि
निर्मीय विश्वोपद्रवकारिणां।
दुश्चिन्तयाः
फलमिदं? किमामिषविषागतम्?॥
हरिद्रां
लशुनं दुग्धं मध्वादीनांच सेवनात्।
देहेषु
प्रबला शक्तिर्जायते सुखजीविनाम्॥
तस्माद्भ्रान्तिं
विहायात्र भारते सुखदे शुभे।
गृहेषु
पुण्यपूतेषु जीवन्तु शरदां शतम्॥
No comments:
Post a Comment