This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Tuesday, May 19, 2020

Becoming Vice Chancellor should not be the aim.



कुलपतिः

प्रो. चौडूरि उपेन्द्र रावः,
जे. एन्. यू.

पुत्र !
संस्कृतं पठ !
सनातनसंस्कृतेः
सारथिर्भव !
आं तात,

अहमपि संस्कृतं पठिष्यामि
अहमपि उपाधिं प्राप्स्यामि

अहमपि शोधकार्यं करिष्यामि
अहमपि सेवां प्राप्स्यामि
अहमपि ग्रन्थान् लिखिष्यामि

अहमपि सभासु भाषिष्ये
पुष्पगुच्छैः खलु मोदिष्ये
अहमपि ज्येष्टान् सेविष्ये
अहमपि धनं प्स्ये

अहो पुत्र,
किं करोषि?
क्व यासि ?

आं तात !

अहमपि प्रोफ़ेसर भविष्यामि
अहमपि परिचयान् करिष्यामि
अहमपि विदेशान् गमिष्यामि

अहमपि सम्मानं प्राप्स्यामि
अहमपि कुलपतिर्भविष्यामि

सत्यं..,
संस्कृतं पठ
कुलपतिर्भव !!


 

No comments:

Post a Comment

నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...