नकाब-पोषम्
लेखकः प्रो.
चौडूरि उपेन्द्र रावः
जे एन यू
विश्वविद्यालयः
किमिदं नाकाबपोषम्?
भयजनकं, भ्रान्तिजनकं
!
विवादास्पदं विकृतस्वरूपम्
!
विश्वविद्यालयोऽयं
विश्वविद्या-लयस्सञ्जातः?
सुदीर्घेतिहासः खल्वद्य
परिहासस्सञ्जातः !
वैचारिकवादानां निलयः
नाना-प्रवादानां निलयः
कथं जातः ?
बुद्धिमतां स्थानं
युद्धपुरुषस्थलं कदा
जातम् ?
सङ्घर्षस्यान्तो कदा
?
सन्धिमार्गः मृग्य
एव किम्?
बौद्धिकवादः बाधितः
हिंसामार्गः स्वीकृतः
!
क्व लोपः ?
कस्य दोषः?
कदा समतौल्यम्?
किं दूरदर्शनप्रणालीनां
(channels) चातुर्यम्?
यदयं सङ्घर्षः द्विगुणीकृतः
?
आहोस्वित्स्वार्थराजनीतिममुं
बीभत्स-रसमुत्पादयति
?
नेता कुत्र? त्राता
कः ?
किं श्रृगालमयं जे
एन् यू वनं
मृगराज-विरहितं जातम्
?
कथं प्रतिभासम्पनाः
विद्यार्थिनः
नकाब-पोषकाः जाताः
?
किमिदं कुटिलाध्यापकनीतिफलं ?
आहोस्विन्निष्क्रियप्रशासन-वैफल्यम्?
No comments:
Post a Comment