This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Thursday, February 13, 2020

संस्कृतभारती कार्यक्रमः दिल्ल्याम्


संस्कृतभारत्या दिल्यां समायोजितायां शिक्षकप्रशिक्षणकार्यशालायां
प्रो. राव महोदयस्य उद्बोधनम्

        संस्कृतभारतीदेहलीद्वारा फरवरीमासस्य नवमे दिने शिक्षकप्रशिक्षणकार्यशाला आयोजिता । देहलीस्थसंकल्पभवने आयोजितायाम् अस्यां कार्यशालायां पंचविंशतिप्रतिभागिनः भागं गृहीतवन्तः। सर्वेsपि प्रतिभागिनः संवादशालायां प्रशिक्षिताः आसन्।

        कार्यशालायाः उद्घाटनं जवाहरलालनेहरूविश्वविद्यालयस्य आचार्येण प्रो. उपेन्द्रराववर्येण कृतम् । स्वीये भाषणे   प्रो. उपेन्द्रराववर्येण उक्तं यत्- संस्कृतभाषायाः प्रतिदिनाभ्यासेन संस्कृते सर्वे जनाः वक्तुं शक्वुवन्ति इति। तदर्थं भाषण, लेखन, कथन, पठन अभ्यासाः करणीयाः इत्यपि तैः प्रत्यपादि। तत्रोपस्थितानां प्रेरणार्थं तैः स्वरचिता संस्कृतकविता श्राविता।

संस्कृतभाषा सर्वपूजिता
श्रेष्टाऽभीष्टा ह्यनवद्या ।
लोकस्याखिल भाषाणामिय
माधारा खलु सम्पूज्या ॥
                    वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
हिन्दी-तेलुगु-तमिल-मराठी
गुजराती, राजस्थानी ।
मलयालं कन्नड-पंजाबी
भाषाणामम्बा हि मता ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
उत्तर-दक्षिण-पूर्व-पश्चिमे
ष्वेषा भाषा खलु पूज्या ।
भारतभाषाष्वेषा श्रेष्ठा 
सर्वसन्नुता सुरभाषा ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
भगवद्गीता विश्ववन्दिता
चत्वारो वेदाः हि सदा ।
रामायणमत्यन्तविश्रुतं
महाभारतं महोज्ज्वलम् ॥
              वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
संगच्छध्वं संवदध्वमिति
वेदमन्त्र उद्घोष्यतां ।
सा विद्या या विमुक्तये इति
ध्येयवाक्यमनुपाल्यताम् ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
सर्वे वेदाः सर्वे ग्रन्थाः
यस्यां भाषायां भान्ति, ।
सा भाषा सर्वाङ्ग-सुन्दरा
संस्कृतभाषा सदा नुता ॥
          वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
शास्त्रज्ञानं काव्यविलासः
भाषापाकश्श्रुतमधुरो ।
ज्ञानं विज्ञानेन संयुतं
संस्कृतभषाविनिर्मितम् ॥
              वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
कथं विस्मृता दिव्या भाषा
भव्या भारतजननीयम् ? 
निधिं स्वकीयां विस्मृत्यैषः
दिशि दिशि पश्यत्यज्ञजनो ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
प्राप्य जीविकां विस्मरन्त्यहो
केचिज्जड पुरुषा बत तां ।
संस्कृतभाषामन्नदायिनीं
सकलैश्वर्य-प्रदां विमलाम् ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम्।
भोः पुरुषाः, भोः महिलास्सर्वाः
संस्कृतस्य जयघोषमिमं ।
वदत वदत संयुज्य साम्प्रतं
जयतु संस्कृतं जयत्विति ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम् ॥

        कार्यशालायाः संचालनं श्रीधनञ्जयवर्येण कृतम्। कार्यशालायां संस्कृतभारत्याः देहलीप्रान्तमन्त्रिण: श्रीदेवकीनन्दनमहाभागाः, संस्कृतभारत्याः पूर्णकालिककार्यकर्तार: श्रीपुष्पेन्द्रमहाभागा:, संस्कृतभारत्या: कार्यकर्तार: विश्वविद्यालयप्रमुखाश्च  श्रीसुशीलकुमारमहाभागाः, संस्कृतभारत्याः कार्यकर्तारौ डॉ आशीषकुमार: डॉ प्रीति: च इमे सर्वे उपास्थिताः आसन्। कार्यशालायाः उद्देश्यं प्रतिभागिनां शिक्षकप्रशिक्षणमासीत्। अग्रिममासस्य प्रथमरविवासरे (01/03/2020) पुनः अस्याः कार्यशालायाः आयोजनं भविष्यति। प्रशिक्षितशिक्षकाः सेवाभारत्याः अशीति: केन्द्राणि गत्वा बालकान् पाठयिष्यन्ति।
                                                                               




Thursday, January 9, 2020

SAVE J. N. U.

 

नकाब-पोषम्

लेखकः प्रो. चौडूरि उपेन्द्र रावः
जे एन यू विश्वविद्यालयः

किमिदं नाकाबपोषम्?
भयजनकं, भ्रान्तिजनकं !
विवादास्पदं विकृतस्वरूपम् !

विश्वविद्यालयोऽयं
विश्वविद्या-लयस्सञ्जातः?
सुदीर्घेतिहासः खल्वद्य
परिहासस्सञ्जातः !

वैचारिकवादानां निलयः
नाना-प्रवादानां निलयः कथं जातः ?
बुद्धिमतां स्थानं
युद्धपुरुषस्थलं कदा जातम् ?

सङ्घर्षस्यान्तो कदा ?
सन्धिमार्गः मृग्य एव किम्?   
बौद्धिकवादः बाधितः
हिंसामार्गः स्वीकृतः !

क्व लोपः ?
कस्य दोषः?
कदा समतौल्यम्?

किं दूरदर्शनप्रणालीनां (channels) चातुर्यम्?
यदयं सङ्घर्षः द्विगुणीकृतः ?
आहोस्वित्स्वार्थराजनीतिममुं
बीभत्स-रसमुत्पादयति ?

नेता कुत्र? त्राता कः ?
किं श्रृगालमयं जे एन् यू वनं
मृगराज-विरहितं जातम् ?
कथं प्रतिभासम्पनाः विद्यार्थिनः
नकाब-पोषकाः जाताः ?
 किमिदं कुटिलाध्यापकनीतिफलं ?
आहोस्विन्निष्क्रियप्रशासन-वैफल्यम्?

Tuesday, December 24, 2019




नरेन्द्र मोदी खलु राष्ट्रवादी


समस्तानां नृणां समुचितविकासेन सततं
नवाभिर्नानाभिर्जनगणमताभिर्विजयते।
नरेन्द्रस्सर्वैरप्यनवरतसंस्तुत्यचरितो
सदा  सत्कार्याणां ततिभिरनवद्योऽयमधुना।।

नरेन्द्रोऽखिलेस्मिन्जगत्युज्ज्वलोऽभू
त्प्रशस्तस्य राष्ट्रस्य  सूनुः प्रकृष्टः।
दुरुद्देश्यपूर्णं दलं कान्ग्रेसाख्यं
पराभूतमेतेन नेत्रा स्वशक्त्या।।
                                                     



मोदी भारतनायकस्सुचरितामग्रेसरः केसरी
धीशालिर्महनीयमूर्तिरचलोध्दण्डप्रचण्डद्युतिः
विस्तीर्णेऽखिलराजनीतिजलधौ चन्द्रायतेऽयं जनो
नानायुक्तिसमन्वितः स्थिरमतिर्दामोदरस्सौख्यदः।।


विहाय भ्रातरं भार्यां गेहं ग्रामं स्वमातरं।
समर्पितमनेनात्र जीवनं भारताय वै ।।

नेत्रानेन समारब्धाः जनसौख्यप्रदायिकाः।
योजनास्तासु सर्वासु योजनैका सुविशृता ।।


दारिद्र्योन्मूलनार्थं हि कृतैषा धनयोजना।
जनानां धनवृध्यर्थमेषा सुविदिताऽभवत्।।

 
योगस्यातिविशिष्टतत्ववलितस्यापि प्रभूतं यश
स्सर्वत्रैव यदि प्रचारसरणिं प्राप्तं जगत्यां भृशं
तन्नेत्रा खलु मोदिना प्रतनुतं योगस्य तेजः पुनः
मन्येऽसावखिलप्रजाप्रतिनिधिष्वग्रेसरस्सक्षमः।।


योगो नाम जनस्य रूपमधिकं योगो हि गुप्तं धनं
योगो बन्धुरसौ विदेशगमने योगो गुरूणां गुरुः ।
योगादेव विनिर्जिताः खलु नृणां चित्तस्य दोषास्ततो
योगात्सौख्यमनन्तमद्भुतमिति प्रोक्तं सदा मोदिना ॥

नरेन्द्रमोदी खलु  स्वच्छवादी
जनाभिमानेन समृद्धशक्तिः ।
प्रमत्तवादभ्रमछद्मवेधी
सदा जयत्युज्वलराष्ट्रवादी ॥


यथा प्रचण्डवेगेन वायुना ग्रासराशयः।
दिक्षु सम्पातिता भूत्वा क्रमेणादृश्यतां गताः ॥


तथैव मोदिना नेत्रा प्रभंजनसमेन सः ।
न्हय्याख्यः पराभूतः खलु तेजस्विना भृशम्


अन्येऽपि बहवस्तत्र मोदिना हि तृणीकृताः।
क्षिप्तास्ते भारते वर्षे  मिथ्यायूथान्विताः खलु


पुनः प्रधानमन्त्रित्वं प्राप्योद्घोषितमेव यत् ।
विकासेन सहैवाद्य विश्वासोऽपीति मोदिना ॥


नरेन्द्रमोदी सततोज्वलस्स
न्नयेन प्राप्नोतु पदं प्रधानं ।
विनम्रभावेन मया कृतैषा
सुपद्यमाला सुरवाग्विचित्रा ॥

नानागुणैर्मणिमयैरिह मण्डितेऽस्मि
न्नारोग्य-धैर्य-विभवादि सुखप्रकर्षः ।
सत्कीर्तिरस्तु विपुला ह्यमला च शक्तिः
सौभाग्यमस्तु धनमस्तु सदैव दिव्यम् ॥


प्रो. चौडूरि उपेन्द्ररावः,
संस्कृत-प्राच्यविद्याध्ययनसंस्थानम्
   जवाहरलाल नेहरू विश्वविद्यालयः,                                           नवदेहली, भारतम्, 9818969756
skt.scholar@gmail.com

నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...