This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Sunday, March 15, 2020

CORONA POEM IN SANSKRIT BY PROF. C. U. RAO, JNU


करोना-कोविदः

(आशुकृता कविता-  प्रो. चौडूरि उपेन्द्र रावेन)


करोनायाः प्रभावेन संसारः क्लममेत्यहो।
एकोनविंशतितमः चीनकोविदयं खलु॥

हस्तचालनसंक्रान्तदुष्टोऽयं कुत्सिताशयः
भारतीयनमस्कारजितोऽभूच्चीनकोविदः।

अप्राप्य भारते स्थानं राष्ट्रान्तरपलायितः।
इटलीरानराष्ट्रेषु जनान्हन्ति पुनःपुनः॥

कोरियाकरोनयोर्मध्ये सम्बन्धः दृढतां गतः।
चीनदेशस्य दुर्बुध्या लोकोऽयं व्यथतेऽधुना॥

तथागतस्य विस्मृत्य मार्गं कुत्सितबुध्दिना।
स्वयं विनिर्मिते जाले स्वयमेव पपात सः (चीनः)

जनास्तु कोविदाद्भीताः यात्रास्तत्यजुरात्मनां।
गृहादपि बहिर्नैव गच्छन्ति परया भिया॥

केचित्स्वपन्ति गेहेषु क्रीडन्त्यन्ये गृहांगणे।
सर्वकारेण साक्षात्तु विरामाः खलु घोषिताः॥

विश्वविद्यालयास्सर्वे कार्याकार्यविमोहिताः।
त्यक्त्वैवाध्यापनं कार्यं कोविद्भयप्रपीडिताः॥

विमानसंस्थाः काश्चित्तु निश्शुल्कपरिवर्तनं।
भविष्यतीति नियमैरुक्त्वा नैवाचरन्खलु॥

सतां हि भारतीयानां स्वस्थजीवनयापिनां
कथं चिन्ता ! कुतो भ्रान्तिः ? कोविदेन दुरात्मना ॥

जैवायुधानि निर्मीय विश्वोपद्रवकारिणां।
दुश्चिन्तयाः फलमिदं? किमामिषविषागतम्?

हरिद्रां लशुनं दुग्धं मध्वादीनांच सेवनात्।
देहेषु प्रबला शक्तिर्जायते सुखजीविनाम्॥

तस्माद्भ्रान्तिं विहायात्र भारते सुखदे शुभे।
गृहेषु पुण्यपूतेषु जीवन्तु शरदां शतम्॥


Thursday, February 13, 2020

संस्कृतभारती कार्यक्रमः दिल्ल्याम्


संस्कृतभारत्या दिल्यां समायोजितायां शिक्षकप्रशिक्षणकार्यशालायां
प्रो. राव महोदयस्य उद्बोधनम्

        संस्कृतभारतीदेहलीद्वारा फरवरीमासस्य नवमे दिने शिक्षकप्रशिक्षणकार्यशाला आयोजिता । देहलीस्थसंकल्पभवने आयोजितायाम् अस्यां कार्यशालायां पंचविंशतिप्रतिभागिनः भागं गृहीतवन्तः। सर्वेsपि प्रतिभागिनः संवादशालायां प्रशिक्षिताः आसन्।

        कार्यशालायाः उद्घाटनं जवाहरलालनेहरूविश्वविद्यालयस्य आचार्येण प्रो. उपेन्द्रराववर्येण कृतम् । स्वीये भाषणे   प्रो. उपेन्द्रराववर्येण उक्तं यत्- संस्कृतभाषायाः प्रतिदिनाभ्यासेन संस्कृते सर्वे जनाः वक्तुं शक्वुवन्ति इति। तदर्थं भाषण, लेखन, कथन, पठन अभ्यासाः करणीयाः इत्यपि तैः प्रत्यपादि। तत्रोपस्थितानां प्रेरणार्थं तैः स्वरचिता संस्कृतकविता श्राविता।

संस्कृतभाषा सर्वपूजिता
श्रेष्टाऽभीष्टा ह्यनवद्या ।
लोकस्याखिल भाषाणामिय
माधारा खलु सम्पूज्या ॥
                    वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
हिन्दी-तेलुगु-तमिल-मराठी
गुजराती, राजस्थानी ।
मलयालं कन्नड-पंजाबी
भाषाणामम्बा हि मता ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
उत्तर-दक्षिण-पूर्व-पश्चिमे
ष्वेषा भाषा खलु पूज्या ।
भारतभाषाष्वेषा श्रेष्ठा 
सर्वसन्नुता सुरभाषा ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
भगवद्गीता विश्ववन्दिता
चत्वारो वेदाः हि सदा ।
रामायणमत्यन्तविश्रुतं
महाभारतं महोज्ज्वलम् ॥
              वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
संगच्छध्वं संवदध्वमिति
वेदमन्त्र उद्घोष्यतां ।
सा विद्या या विमुक्तये इति
ध्येयवाक्यमनुपाल्यताम् ॥
                      वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
सर्वे वेदाः सर्वे ग्रन्थाः
यस्यां भाषायां भान्ति, ।
सा भाषा सर्वाङ्ग-सुन्दरा
संस्कृतभाषा सदा नुता ॥
          वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
शास्त्रज्ञानं काव्यविलासः
भाषापाकश्श्रुतमधुरो ।
ज्ञानं विज्ञानेन संयुतं
संस्कृतभषाविनिर्मितम् ॥
              वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
कथं विस्मृता दिव्या भाषा
भव्या भारतजननीयम् ? 
निधिं स्वकीयां विस्मृत्यैषः
दिशि दिशि पश्यत्यज्ञजनो ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम् ॥
प्राप्य जीविकां विस्मरन्त्यहो
केचिज्जड पुरुषा बत तां ।
संस्कृतभाषामन्नदायिनीं
सकलैश्वर्य-प्रदां विमलाम् ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम्।
भोः पुरुषाः, भोः महिलास्सर्वाः
संस्कृतस्य जयघोषमिमं ।
वदत वदत संयुज्य साम्प्रतं
जयतु संस्कृतं जयत्विति ॥
        वन्दे संस्कृतं , वन्दे संस्कृतम् ॥

        कार्यशालायाः संचालनं श्रीधनञ्जयवर्येण कृतम्। कार्यशालायां संस्कृतभारत्याः देहलीप्रान्तमन्त्रिण: श्रीदेवकीनन्दनमहाभागाः, संस्कृतभारत्याः पूर्णकालिककार्यकर्तार: श्रीपुष्पेन्द्रमहाभागा:, संस्कृतभारत्या: कार्यकर्तार: विश्वविद्यालयप्रमुखाश्च  श्रीसुशीलकुमारमहाभागाः, संस्कृतभारत्याः कार्यकर्तारौ डॉ आशीषकुमार: डॉ प्रीति: च इमे सर्वे उपास्थिताः आसन्। कार्यशालायाः उद्देश्यं प्रतिभागिनां शिक्षकप्रशिक्षणमासीत्। अग्रिममासस्य प्रथमरविवासरे (01/03/2020) पुनः अस्याः कार्यशालायाः आयोजनं भविष्यति। प्रशिक्षितशिक्षकाः सेवाभारत्याः अशीति: केन्द्राणि गत्वा बालकान् पाठयिष्यन्ति।
                                                                               




నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...